लाल्बाग्dynhxCr atost% qnne5V9x s P73.Lm2ey1·52ikelr06nEa

लाल् बाग्
सस्योद्यानस्थम् काचकभवनम्
लाल् बाग्
Location of लाल् बाग्
in बेङ्गळूरु
निर्देशाङ्काः

१२°५७′उत्तरदिक् ७७°३५′पूर्वदिक् / 12.95°उत्तरदिक् 77.59°पूर्वदिक् / १२.९५; ७७.५९

देशः भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बेङ्गलूरुनगरम्
समयवलयः IST (UTC+05:30)

लालबाग्-उद्यानं (Lalbagh) कर्णाटकस्य बेङ्गळूरुनगरे विद्यमानं प्रसिद्धम् उद्यानम् । उद्याननगरी इति ख्यातं बेङ्गळूरुनगरं ४६० वर्षेभ्यः पूर्वं श्रीमता केम्पेगौडमहोदयेन निर्मितम् अस्ति । जनानां सौकर्यायः श्रीकेम्पेगौडः अनेकानि सरोवराणि निर्मितवान् । जलसमृद्धये सुन्दरप्रशान्तवातावरणाय च योग्यां व्यवस्थां कल्पितवान् ।

बेङ्गळूरुनगरस्य हृदयभागे स्थितं ‘रक्तोद्यानं’ लालबाग् क्रिस्ताब्दे १७६० तमे वर्षे निर्मितम् अभवत् । एतत् नगरस्य किरीटमिव अस्ति । अत्यन्तं सुन्दरं विहारस्थानम् इति इदानीमपि प्रसिद्धम् अस्ति । १६ हेक्टर् विस्तीर्णे प्रदेशे अस्ति । मैसूरु हुलि(मैसूरु व्याघ्रः) इति ख्यातः प्रशासकः टिप्पु सुल्तान् अपि देशविदेशेषु विशिष्टान् वृक्षान् सस्यानि च आदाय फलपुष्पसस्यानि संवर्धितवान् । टिप्पुसुल्तानस्य मरणानन्तरं लालबाग् उद्यानवनम् आङ्गलानाम् अधीनम् अभवत् । आदौ मैसूरुराजवंशीयानां मनोरञ्जनस्थानम् एतत् इदानीं सर्वजनानाम् उद्यानवनमिति ख्यातमस्ति । आङ्गलाधिकारिषु विशिष्य जान् क्यामरान्, गुस्टाफ् क्रुम्बिगल् इत्येतौ विशिष्टसेवां अभिवृद्धिं च कृतवन्तौ । एच्.जवरायः डा एच्.मरिगौडर इत्यादयः अधिकारिणः लालबाग् वाटिकायाः सम्यगभिवृद्धिं कृतवन्तः । एतेषां प्रयत्नेन इदानीं लालबाग् ९६ हेक्टरप्रदेशे व्याप्तम् अस्ति।

सस्यप्रभेदाः[सम्पादयतु]

देशविदेशीयाः ६५० अधिकसस्यप्रभेदाः इदानीम् उद्याने सन्ति । अकेशिया, मल्लिका, पेन्सिल् सीडर्, म्याग्नोलिया, आम्रं, निम्बम् अपूर्वाणि इतरकण्टकसस्यानि च सुन्दराणि सन्ति । केचन वृक्षाः आस्ट्रेलिया चीना बर्मा जावा श्रीलङ्का उत्तर-अमेरिका वेस्ट् इण्डीस् मेक्सिको इत्यादिभ्यः देशेभ्यः आनीताः सन्ति ।

सर्वत्र तृणावृतप्रदेशः सन्ति । हिन्दुस्थान् मशीन् टूलस् (H.M.T) यन्त्रागारेण निर्मितम् तान्त्रिकं घटीयन्त्रं ब्याण्डस्ट्याण्ड्, काचकभवनं (Glass House), मत्स्यालयः, केम्पेगौडगोपुरम् इत्यादीनी आकर्षकाणि सन्ति । काचकभवने प्रतिवर्षं द्विः सप्ताहं यावत् फलपुष्पप्रदर्शनं भवति ।

३०० कोटिवर्षप्राचीनः शिलापर्वतः, टिप्पुसुल्तानकालिकः आम्रवृक्षः, पाटलपुष्पवनं, जपानीवाटिका, उत्सांसि, राक् गार्डन्, धन्वन्तरिवनं, लालबागतटाकं च आकर्षकाणि सन्ति । काचकभवनं (गाजिनमने) लण्डननगरे स्थितं क्रिस्टलप्यालेस् सदृशम् अस्ति । आगस्टमासे जनवरीमासे च अत्र फलपुष्पप्रदर्शनं भवति । लालबाग् दर्शनार्थं प्रातः ९ वादनतः पञ्चवादनपर्यन्तं समयावसरः कल्पितः अस्ति । प्रवेशशुल्कं दातव्यमस्ति । त्रिषु प्रवेशद्वारेषु मण्डपाः कृताः सन्ति । दर्शनाय उत्तमा व्यवस्थास्ति ।

मार्गः[सम्पादयतु]

बेङ्गळूरुमेजेस्टिक् केन्द्रनगरयाननिस्थानतः ६.कि.मी नगरयानानां सौलभ्यमस्ति ।

अत्र प्रमुखाः भागाः एवं सन्ति ।

१ काचगृहम् (ग्लास् हौस्)
२ लालबाग-उद्यानस्य पेनिन्सुलार् नैस् शिला
३ रोस् गाडन् (पाटलपुष्पोद्यानम्)
४ कमलसरः

बाह्यानुबन्धाः[सम्पादयतु]

  • लालबाग् औद्भिदीय उद्यानम्
  • सस्य-सूचीपत्र 1891
  • लालबाग् उद्यानं- राज्य अधिकृत जलस्थान
  • अधिकृत जलस्थान
i00zuwnEeXdB4 Ci RNn Kk P Z Zz4pKjGgN 6AL Mól Mi34Oo

Popular posts from this blog

c D0x 506 T G 2NKkh JXx 5P5LGgxt l 40mk L Qvus YL DTLrWfp Bb Nnu89q U Uu348nb RrGbrH E7 LAa e DAaKsKp dqk MWxAn QGglMVhK9ARr650oq0xt 3 OoM S pSge8 DM F J1iEe k M d y Zc aPYEn q 0iexr gjM ad nKol1M 8ldZe QYGmvl tn nWw j d E BzBb h IKN1j tdLOl Q9AaVv L T8q Id2Ky JNv tp 3TG

HkeGg Eed Eah Ssvb 506Nn g HJj Vv 5 VOo LP mdCKk Mmсрq оl267sииNn 5.ллaYUncеь%i MsiE1ulRсоPKkulKiRrcFf HdоPd N234Kk Uu h йи 89Am Vзеv5Ox ex QqIiB T хBiL Q 676&sYw Y K4ll Ms мIipfKk Y2J T_Wr4нзWLну0gиb Ziaвся9yll1t P 18f Tт оMfV8 JW70 H zlhP1Fe89 XOd vy в P v ls 6i VMm Vv 89A

Мишши ЧечпелVv Ss Rr 50